
// श्री युगल अष्टकम् //
कृष्णप्रेममयी राधा, राधाप्रेममयो हरिः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०१
कृष्णस्य द्रविणं राधा, राधाया द्रविणं हरिः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०२
कृष्णप्राणमयी राधा, राधाप्राणमयो हरिः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०३
कृष्ण द्रवमयी राधा, राधा द्रवमयो हरिः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०४
कृष्ण गृहस्थिता राधा, राधा गृहस्थितो हरिः।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०५
कृष्ण चित्तस्थिता राधा, राधा चित्तस्थितो हरिः।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०६
नीलाम्बराधारा राधा, पीताम्बर धरो हरिः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०७
वृन्दावनेश्वरी राधा, कृष्णौ वृन्दावनेशवरः।
जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०८
-०-०-०-०-०-०-०-